१ आदिपर्व.jpg)
॥ श्रीः ॥
1.246. अध्यायः 246
Mahabharata - Adi Parva - Chapter Topics
अर्जुनेन सुभद्रायाः गोपीवेषेण द्रौपदीसमीपप्रेषणम्॥ 1 ॥ कृतनतिं सुभद्रांप्रति पृथाद्रौपदीभ्यां आशीर्वादः॥ 2 ॥ स्वपुरं प्रविष्टेनार्जुनेन भ्रातृश्यः स्वकृततीर्थयात्रावृत्तान्तकथनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-246-0x(1312)(10654)
क्रोशणात्रे पुरस्यासीद्गोष्ठं पार्थस्य शोभनम्।
तत्रापि यात्वा बीभत्सुर्निविष्टो यदुकन्यया॥ 1-246-1(10655)
ततः सुभद्रां सत्कृत्य पार्थो वचनमब्रवीत्।
गोपिकानां तु वेषेण गच्छ त्वं वृजिनं पुरम्॥ 1-246-2(10656)
कामव्याहारिणी कृष्णा रोचतां ते वचो मम।
दृष्ट्वा तु परुषं ब्रूयात्सह तत्र मयागताम्॥ 1-246-3(10657)
अन्यवेषेण तु गतां दृष्ट्वा सा त्वां प्रियं वदेत्।
यत्तु सा प्रथमं ब्रूयान्न तस्यास्ति निवर्तनम्॥ 1-246-4(10658)
तस्मान्मानं च दर्पं च व्यपनीय स्वयं व्रज।
तस्य तद्वचनं श्रुत्वा सुभद्रा प्रत्यभाषत॥ 1-246-5(10659)
एवमेतत्करिष्यामि यथा त्वं पार्थ भाषसे।
सुभद्रावचनं श्रुत्वा सुप्रीतः पाकशासनिः॥ 1-246-6(10660)
गोपालान्स समानीय त्वरितो वाक्यमब्रवीत्।
तरुम्यः सन्ति यावन्त्यस्ताः सर्वा व्रजयोषितः॥ 1-246-7(10661)
आगच्छन्तु गमिष्यन्त्या भद्रया सह सङ्गताः।
इन्द्रप्रस्थं पुरवरं कृष्णां द्रष्टुं यशस्विनीम्॥ 1-246-8(10662)
एतच्छ्रुत्वा तु गोपालैरानीता व्रजयोषितः।
ततस्ताभिः परिवृतां व्रजस्त्रीभिः समन्ततः॥' 1-246-9(10663)
सुभद्रां त्वरमाणश्च रक्तकौशेयवासिनीम्।
पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः॥ 1-246-10(10664)
साऽधिकं तेन रूपेण शोभमाना यशस्विनी।
`गोपालिकामध्यगता प्रययौ वृजिनं पुरम्॥ 1-246-11(10665)
त्वरिता खाण्डवप्रस्थमाससाद विवेश च।'
भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना॥ 1-246-12(10666)
ववन्दे पृथुताम्राक्षी पृथां भद्रा पितृष्वसाम्।
तां कुन्ती चारुसर्वाङ्गीमुपाजिघ्रत मूर्धनि॥ 1-246-13(10667)
प्रीत्या परमया युक्ता आशीर्भिर्युञ्जताऽतुलाम्।
ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना॥ 1-246-14(10668)
ववन्दे द्रौपदीं भद्रा प्रेष्याऽहमिति चाब्रवीत्।
प्रत्युत्थाय तदा कृष्णा स्वसारं माधवस्य च॥ 1-246-15(10669)
परिष्वज्यावदत्प्रीत्या निःसपत्नोस्तु ते पतिः।
`वीरसूर्भव भद्रे त्वं भव भर्तृप्रिया तथा॥ 1-246-16(10670)
ओजसा निर्मिता बह्वीरुवाच परमाशिषः।'
तथैव मुदिता भद्रा तामुवाच तथास्त्विति॥ 1-246-17(10671)
`ततः सुभद्रां वार्ष्णेयी परिष्वज्य शुभाननाम्।
अङ्के निवेश्य मुदिता वसुदेवं प्रशस्य च॥ 1-246-18(10672)
ततः किलकिलाशब्दः क्षणेन समपद्यत।
हर्षादानर्तयोधानामासाद्य वृजिनं पुरम्॥ 1-246-19(10673)
देवपुत्रप्रकाशास्ते जाम्बूनदमयध्वजाः।
पृष्ठतोऽनुययुः पार्थं पुरुहूतमिवामराः॥ 1-246-20(10674)
गोभिरुष्ट्रैः सदश्वैश्च युक्तानि बहुला जनाः।
ददृशुर्यानमुख्यानि दाशार्हपुरवासिनाम्॥ 1-246-21(10675)
ततः पुरवरे यूनां पुंसां वाच उदीरिताः।
अर्जुने प्रतियाति स्म अश्रूयन्त समन्ततः॥ 1-246-22(10676)
प्रवासादागतं पार्थं दृष्ट्वा स्वमिव बान्धवम्।
सोऽभिगम्य नरश्रेष्ठो दाशार्हशतसंवृतः। 1-246-23(10677)
पौरैः पुरवरं प्रीत्या परया चाभिनन्दितः।
प्राप्य चान्तःपुरद्वारमवरुह्य नरर्षभः॥ 1-246-24(10678)
ववन्दे धौम्यमासाद्य मातरं च धनञ्जयः।
स्पृष्ट्वा च चरणौ राज्ञो भीमस्य च धनञ्जयः॥ 1-246-25(10679)
यमाभ्यां वन्दितो हृष्टः सस्वजे तौ ननन्द च।
ब्राह्मणप्रमुखान्सर्वान्भ्रातृभिः सह सङ्गतः॥ 1-246-26(10680)
यथार्हं मानयामास पौरजानपदानपि।
तत्रस्थान्यनुयातानि तीर्थान्यायतनानि च॥ 1-246-27(10681)
निवेदयामास तदा राज्ञे सर्वं स्वनुष्ठितम्।
भ्रातृभ्यश्चैव सर्वेभ्यः कथयामास भारत॥ 1-246-28(10682)
श्रुत्वा सर्वं महाप्राज्ञो धर्मराजो युधिष्ठिरः।
पुरस्तादेव तेषां तु पूजयामास चार्जुनम्॥ 1-246-29(10683)
पाण्डवेन यथार्हं तु पूजार्हेण सुपूजितः।
न्यविशच्चाभ्यनुज्ञातो राज्ञा तुष्टो यशस्विना॥ 1-246-30(10684)
तामदीनां सुपूजार्हां सुभद्रां प्रीतिवर्धिनीम्।
साक्षाच्छ्रियममन्यन्त पार्थाः कृष्णसहोदराम्॥ 1-246-31(10685)
गुरूणां श्वशुराणां च देवराणां तथैव च।
सुभद्रा स्वेन वृत्तेन बभूव परमप्रिया॥' 1-246-32(10686)
ततस्ते हृष्टमनसः पाण्डवेया महारथाः।
कुन्ती च परमप्रीता कृष्णा च सततं तथा॥ ॥ 1-246-33(10687)
इति श्रीमन्महाभारते आदिपर्वणि हरणाहरणपर्वणि षट्चत्वारिंशदधिकद्विशततमोऽध्यायः॥ 246 ॥

|